________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
नवम
उद्देशकः १४५५ (B)
सागारियम्मि पगते, साधारणमो य समणुवत्तंते। ओसहि-फलसुत्ताणं, वंजणनाणत्ततो जोगो॥ ३७१७ ॥
सागारिके पूर्वसूत्रेभ्यः प्रकृते साधारणे च समनुवर्तमाने तत्प्रस्तावमुपजीव्य औषधिफलसूत्राणामुपनिपातः कृतः । यद्येवमयमर्थः पूर्वसूत्रेभ्य एव गत इति किमर्थममून्युपात्तानि? इति, अत आह-व्यञ्जननानात्वात् । किमुक्तं भवति? पूर्वं शाला अधिकृत्य कल्प्याऽकल्प्यविधिरुक्तः, इदानीं तु तान्येव व्यञ्जनान्यधिकृत्य स उच्यते, ततो व्यञ्जनैर्नानात्वाद् भेदाददोषः । एष योगः सम्बन्धः ॥ ३७१७॥
अस्य व्याख्या
सागारिकस्य शय्यातरस्य औषधयः गोरसाद्याः संस्तृताः साधारणाः, तस्मात् तन्मध्याद् | दापयति सूपकारः, नो कल्पते से तस्य साधोः प्रतिग्रहीतुम्॥ तथा सागारिकस्यौषधयः असंस्तृता असाधारणाः तस्माद् दापयति, एवं से तस्य कल्पते प्रतिग्रहीतुम्॥ एवमाम्रफलसूत्रद्वयमपि भावनीयम्॥ ३७१७॥ १. गोरसवत्याम्-पु.प्रे.पाठान्तरम्॥
गाथा ३७१३-३७१९
औषधादिषु साधारणासाधारणयोः कल्प्याकल्प्यम्
|१४५५ (B)
For Private and Personal Use Only