________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् नवम
उद्देशकः १४५४ (A)
सच्चित्ते अच्चित्ते, मीसेण य जा पउज्जए साला। तद्दव्वमन्नदव्वेण, होइ साहारणं तं तु॥ ३७१३॥
सचित्तेन अचित्तेन, गाथायां सप्तमी तृतीयार्थे प्राकृतत्वेन, मिश्रेण च प्रयुज्यते शाला। किंविशिष्टेन सचित्तादिना ? इति अत आह- तद्रव्येण अन्यद्रव्येण वा। तद्रव्यं नाम-यत् शालायां प्रक्षिप्तमस्ति, अन्यद्रव्यं ततो व्यतिरिक्तं द्रव्यम् । इयमत्र भावना-यत् शालायां प्रक्षिप्तं सचित्तमचित्तं मिश्रं वा कार्पासादि तस्य त्रिभागादि दातव्यम्, यदि वा यन्निष्पद्यते कार्पासादिभ्यो वस्त्रादिकमन्यत् तस्य त्रिभागादि दातव्यमिति तद भवति साधारणमच्छिन्नं द्रव्यं, तन्न कल्पते ॥ ३७१३ ॥
साम्प्रतं छिन्नमाहतद्दव्वमन्नदव्वेण वा वि छिन्ने वि गहणमद्दिढे । मा खलु पसंगदोसा, संछोभभतिं व मुंचेजा ॥ ३७१४ ॥
गाथा |३७१३-३७१९
औषधादिषु साधारणासाधारणयोः कल्प्याकल्प्यम्
१४५४ (A)
१ भतिं - ला.॥ मयं - पु. प्रे. ॥
For Private and Personal Use Only