SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४५३ (B) यस्तु सागारिकेण लाभभागेन त्रिभागादिना आपणः प्रयुक्तो भवति स भवत्यापणः साधारणः, तत्र ग्रहीतुं न कल्पते ॥ ३७११ ॥ साम्प्रतं 'भाण्डं साधारणावक्रयप्रयुक्तं' व्याख्यानयति छेदे वा लाभे वा सागारितो जत्थ होइ आभागी । तं तु साहारणं जाणे, सेसमसाहारणं होइ ॥ ३७१२ ॥ यत्र भाण्डे छेदे लाभे वा सागारिकोऽर्द्धन त्रिभागादिना वा आभागी भवति तद् भाण्डं | साधारणं साधारणावक्रयप्रयुक्तं जानीयात् । एतद्व्यतिरिक्तं शेषं भाण्डमसाधारणं भवति। साधारणे च भाण्डं यावन्न विभज्यते तावत् सागारिकपिण्डः, विभक्ते तु कल्पते। तत्रापि प्रक्षेपदोषप्रसङ्गतो दृष्टे न कल्पते, अदृष्टे तु कल्पते यदा तु सा शाला भाटकप्रदानेन गृहीता, एतावता कालेन मया तवैतावद् दातव्यम्, न च भाण्डं शय्यातरेण सह छेदे लाभे वा त्रिभागादिना साधारणम्, तत्राप्यसाधारणे अदृष्टे कल्पते, दृष्टे तु प्रक्षेपदोषप्रसङ्गतो नेति ॥ ३७१२ ॥ सम्प्रति 'छिन्नं वोच्छं अछिन्नं वा' इति व्याख्यानार्थमाह गाथा ३७०६-३७१२ साधारणसालादिषु कल्प्याकल्प्यम् १४५३ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy