________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् नवम
उद्देशकः १४५२ (A)
ववहारे उद्देसम्मि, नवमए जत्तिया भवे साला । तासि परिपिंडियाणं, साहारणवज्जिए गहणं ॥ ३७०६ ।।
व्यवहारे नवमे उद्देशके यावत्यः शाला: शालासूत्राणि भवन्ति विद्यन्ते तासां सर्वासां परिपिण्डितानामयं तात्पर्यार्थ:- यत्र साधारणम् अविभक्तं क्रयाणकं तत्र प्रतिषेधः, साधारणवर्जिते तु ग्रहणम्॥ ३७०६ ॥
सम्प्रति साधारणशब्द-शालाशब्दव्याख्यानार्थमाहसाहारण सामन्नं, अविभत्तमछिन्नसंथडेगर्ल्ड। सालत्ति आवण त्ति य, पणियगिहं चेव एगटुं॥ ३७०७॥ साधारणं सामान्यमविभक्तमच्छिन्नं संस्तृतमिति एकार्थम्, एते सर्वेऽपि शब्दा | एकार्थिका इत्यर्थः । शाला इति वा आपण इति वा पणितगृहमिति वा एकार्थम् ॥ ३७०७॥
साहारणा उ साला, दव्वे मीसम्मि आवणे भंडे। साहारणऽवक्कपउत्ते, छिन्नं वोच्छं अच्छिन्नं वा ॥ ३७०८ ॥
गाथा ३७०६-३७१२ साधारणसालादिषु कल्प्याकल्प्यम्
१४५२ (A)
For Private and Personal Use Only