________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
साधारणमेगपयत्ति किच्च तहियं निवारियं गहणं। इदमवि सामन्नं चिय, साहारणसालासु य जोगो ॥ ३७०४ ॥
अनन्तरसूत्रेषु एकस्यां प्रजायां साधारणमिति कृत्वा तत्र ग्रहणं निवारितम् । इदमपि |* वक्ष्यमाणं साधारणशालासु सामान्य साधारणमतो निषिध्यते ॥ ३७०४॥
नवम
उद्देशकः
अनेन सम्बन्धेनाऽऽया-तस्यास्य व्याख्या
१४५० (A)
सूत्र १९-३२
सागारिकस्य शय्यातरस्य चक्रिकाशाला तैलकशाला, तैलविक्रयशाला इत्यर्थः, सागारिकेणाऽऽत्मना सह साधारणावक्रयप्रयुक्ता यत् तस्यां शालायां प्रक्षिप्यते यश्च तस्य लाभ:[स] सागारिकेण साधारण इत्यर्थः, तस्मात् शालाया मध्यात् यत् साधूचितं तैलादिकमन्यो दापयति तत् से तस्य साधोर्न कल्पते इति प्रथमसूत्रार्थः । तथा सागारिकस्य चक्रिकाशाला तैलिकशाला सा निस्साधारणाऽवक्रयप्रयुक्ता न किमपि सागारिकसाधारणं तत्र भाण्डं प्रक्षिप्तमस्तीति भावः, तस्मान्निस्साधारणावक्रयशालामध्याद् दापयति, एवं से तस्य साधोः कल्पते प्रतिग्रहीतुम्। एष द्वितीयसूत्रार्थः॥
एवं गोलिकशाला-बोधिकशाला-दौषिकशाला-[सौतिकशाला-षोंडियसाला-शौण्डिकशाला]
गाथा ३७०४-३७०५ साधारणाउसाधाणवक्रयप्रयुक्तयोर्विधिः
१४५० (A)
For Private and Personal Use Only