________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
नवम
उद्देशकः १४४९ (A)
| सूत्र १७-१८
भीतानि चुल्लीकरभयात्, गाथायां षष्ठी पञ्चम्यर्थे, सम्बन्धविवक्षायां वा षष्ठी, यस्माच्चुल्लीकरभयात् तानि भीतानि तेन कारणेनाऽन्तर्बहिर्वा तेषामेका प्रजा चुल्ली भवति। अभिनिप्रजायां तु सत्यां यद्यपि सागरिकसत्कमुपजीव्यते तथापि विभिन्नचुल्लीकतया यद् गृह्यते तत् तेषामेव भवतीति सागारिकदोषा न भवन्ति, तथापि प्रसङ्गदोषतो न कल्पते। तथा चाह- अभिनिप्रजायामपि न कल्पते, यतो भद्रक-प्रान्तकृताः प्रक्षेपादयो दोषाः, भद्रक: प्रक्षेपादीन् दोषान् कारयेत्, प्रान्तो विनाशप्रभृतीन् ॥ ३७०१ ॥
तानेवाहजं देसी तं देमो, एए घेत्तुं न इच्छते अम्हं । अहवा वि अकुलजो त्ति य, गेण्हंति अदिट्ठमादीयं ॥ ३७०२ ॥
भद्रका ब्रुवते-त्वं साधुभ्यः प्रभूतं देहि, यद् ददासि तद् वयं तव दास्यामः, यत एतेऽस्माकं गृहे नेच्छन्ति ग्रहीतुम्। गाथायामेकवचनं प्राकृतत्वात्। एवं भद्रककृताः प्रक्षेपादयो दोषाः । अथवा प्रान्तो ब्रूते-अकुलजा एत इति कृत्वा अदृष्टादिकं गृह्णन्ति, एवं गहीं करोति। अतिप्रान्तो विनाशमपि ॥ ३७०२॥
गाथा
३६९८-३७०३ सागारिकसाधारणनिस्सधारण।
योर्विधिः
|१४४९ (A)
For Private and Personal Use Only