________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः १४४८ (B)
अथ कथं प्रथम-तृतीयादिषु चतुर्षु सूत्रेषु शय्यातरदोषा:? कथं वाऽन्यत्र प्रसङ्गदोषा:? तत आह
दारुग-लोणे गोरस, सूवोदग अंबिले य सागफले । उवजीवति जं सारिं, एगपए वा वि अभिनिपए ॥ ३७०० ॥
दारु काष्ठम्। लवणं गोरसं च प्रतीतम्। सूपं मुद्गादि । उदकम् अम्लम् शाकफलानि प्रतीतानि। यस्मात् सारि इति षष्ठ्यर्थे द्वितीया प्राकृतत्वात्, सागारिकस्य सत्कामेकस्यां प्रजायां प्रत्येकं विविक्तायां वा प्रजायामुपजीवति तेन कारणेन सागरिकदोषाः प्रसङ्गदोषाश्च प्रसजन्ति * ॥ ३७०० ॥
एतेन 'सागारियं च उवजीवति' इति व्याख्यातम्। अथ कस्मादेकां चुल्ली प्रतिपद्यन्ते? तत आह
भीयाई करभयस्सा, अंतो बाहिं व होज एगपया। अभिनिपए वि न कप्पति, पक्खेवगमादिणो दोसा ॥ ३७०१ ॥
| सूत्र १७-१८
गाथा
३६९८-३७०३ सागारिकसाधारणनिस्सधारणयोर्विधिः
१४४८ (B)
For Private and Personal Use Only