________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः
१४४७ (B)
अत्र 'अभिनिव्वगडाए' पृथग्गृहे एकद्वारे एकनिष्क्रमणप्रवेशे, एकनिवेशनान्तर्वर्त्तित्वात्। तथा अभिनिपयाए इति अभि-प्रत्येकं नियता विविक्ता प्रजा-चुल्ली अभिनिप्रजा तस्याम्। शेषं सुगमम् ॥ सम्प्रति भाष्यविस्तर:
पुर-पच्छसंथुतो वा, वि नायतो उभयसंथुतो वा वि। एगवगडा घरं तू, पया उ चुल्ली समक्खाया॥ ३६९६ ॥
ज्ञातको नाम पूर्वसंस्तुतः, यदि वा पश्चात्संस्तुतः,अथवा उभयसंस्तुतः स्वजनः। पूर्वसंस्तुतो नाम माता-पितृपक्षवर्ती, पश्चात्संस्तुतो भार्यापक्षगतः, उभयसंस्तुतस्तथाविध | नात्रासम्बन्धविशेषभावत उभयपक्षवर्ती । एकवगडा नाम एकं गृहम्। प्रजा तु चुल्ली समाख्याता, प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजा इति व्युत्पत्तेः ॥ ३६९६ ॥
एगपए अभिणिपए, अट्ठहि सुत्तेहि मग्गणा जत्थ। सागारियदोसेहिं, पसंगदोसेहि य अगेझं॥ ३६९७ ॥ एकस्यां प्रजायामभिनिप्रजायां प्रत्येकं विविक्तायां प्रजायामष्टभिः सूत्रैः पिण्डस्य
सूत्र ९-१६
गाथा ३६९४-३६९७ शय्यातरोप
जीविनः पिण्डनिषेधः
१४४७ (B)
For Private and Personal Use Only