________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम उद्देशकः
१४४२ (B)
܀܀܀܀܀܀܀
www.kobatirth.org
15
सूत्रं तस्य सम्बन्धः । अनेन सम्बन्धेनाऽऽयातस्याऽस्य व्याख्या
सागारिको नाम - शय्यातरस्तस्य आदेशः आयासकर आदेशः, यदि वा आदेशित आदेश:, 15 अथवा आवेश इति शब्दसंस्कारः तस्य व्युत्पत्तिमग्रे वक्ष्यामः । स च नायको मित्रं प्रभुः परतीर्थिको वा द्रष्टव्यः। वगडा नाम - परिक्षेपः, तस्य अन्तः- मध्ये भुङ्क्ते पदार्थान् ओदनादीन्। किंविशिष्टान् ? इत्याह- निष्ठितान् निष्ठां नीतान्, निसृष्टान् अनुज्ञातान् प्रातिहारिकान् सागारिकभुक्तशेषान् । तस्मात् परिनिष्ठितादिमध्याद् दापयति न से तस्य कल्पते प्रतिग्रहीतुम् 20 एवं शेषाण्यपि त्रीणि सूत्राणि भावनीयानि ।
Acharya Shri Kailassagarsuri Gyanmandir
एवं चत्वार्यादेशविषयाणि, चत्वारि [च] दासादिविषयाणि । इह यत्र यत्र प्रातिहारिकं तत्र तत्र सागरिकपिण्ड इति न कल्पते । यत्र यत्र न प्रातिहारिकं तत्र तत्र न सागारिकपिण्ड इति कल्पते। प्रथम-तृतीय-पञ्चम- सप्तमसूत्रेषु सागारिकपिण्ड इति कृत्वा न कल्पते । द्वितीयचतुर्थ षष्ठाऽष्टमसूत्रेषु न भवति सागारिकपिण्ड इति कल्पते । केवलं भद्रक-प्रान्तदोषतो वर्ज्यते
25
5 इति सूत्राष्टकभावार्थः । अधुना भाष्यकृद् आदेशशब्दव्याख्यानमाह
For Private and Personal Use Only
25
सूत्र १-८ गाथा
| ३६८३-३६८७ प्रतिहारकभोजिशय्या
तरस्य पण्डि अकल्प्यः
१४४२ (B)