________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम
उद्देशकः १४३९ (Bl
लोके उत्तरेऽपि च लोकोत्तरे च एतौ अनन्तरोक्तौ द्वावप्यसाधको द्रव्यतो भावतश्च प्रासादस्य, विपरीतवर्त्तिनः पुनरुभयथाऽपि सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतो भावतश्च प्रासादस्य साधकौ ॥ ३६७८ ॥
सिद्धिपासायवडेंसगस्स करणं चउव्विहं होइ। दव्वे खेत्ते काले, भावे य न संकिलेसेइ ॥ ३६७९ ॥
सिद्धिप्रासादावतंसकस्य करणं चतुर्विधं भवति, तद्यथा- द्रव्यतः क्षेत्रतः कालतो | भावतश्च। ततो गीतार्थो द्रव्यादिषु साधून् न संक्लेशयति॥ ३६७९ ॥
गाथा
४३६७३-३६८० एवं तु निम्मवंतीति, अचिरेण सिद्धिपासायं ।
आहारकरणे तेसिं पि इमो उ विही, आहारेयव्वए होंति ॥ ३६८० ॥
अमात्यदृष्टान्तः एवं तु द्रव्यादिषु संक्लेशाऽकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासादं
१४३९ (B) निर्मापयन्ति, तेषामपि सिद्धिप्रासादनिर्मापकानामाहारयितव्ये अयं वक्ष्यमाणो विधिः ॥३६८०॥
For Private and Personal Use Only