________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमेवाह
श्री
व्यवहारसूत्रम्
अष्टम
उद्देशकः १४४० (A)
अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागे । वायपरियारणट्ठा, छब्भागं ऊणयं कुजा ॥ ३६८१ ॥
अर्द्धमुदरस्य सव्यञ्जनस्य दधि-तक्र-तीमनादिसहितस्याऽशनस्य योग्यं कुर्यात्, द्वौ भागौ | द्रवस्य पानीयस्य योग्यौ, षष्ठं तु भागं वातप्रविचरणार्थमूनकं कुर्यात्। इयमत्र भावनाउदरस्य षड्भागाः कल्प्यन्ते, तत्र त्रयो भागाः अशनस्य सव्यञ्जनस्य, द्वौ भागौ पानीयस्य, षष्ठो वातप्रविचारणाय, एतच्च साधारणं प्रावृट्काले। शीतकाले चत्वारो भागाः सव्यञ्जनस्याऽशनस्य, पञ्चमः पानीयस्य षष्ठो वातप्रवीचाराय। उष्णकाले द्वौ भागावशनस्य सव्यञ्जनस्य, त्रयः पानीयस्य, षष्ठो वातप्रविचारणायेति ॥ ३६८१॥ एसो आहारविही, जह भणितो सव्वभावदंसीहिं ।
४१४४० (A) धम्मावासगजोगा, जेण न हायंति तं कुज्जा ॥ ३६८२ ॥
गाथा
For Private and Personal Use Only