________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् |
अष्टम
उद्देशकः १४३८ (B)
दापयति। भावतो न ददाति विश्राम निष्ठरैश्च वचनैः खिंसयति, जितामपि च कर्मकरणतो लभ्यामपि भृतिं मूल्यं न ददाति। एवं च सति ते कर्मकराः प्रासादमकृत्वाऽपि नष्टाः पलायिताः, स्थितः प्रासादोऽकृतः, राज्ञा चैतत् ज्ञातं ततोऽमात्यस्य दण्डना कृता, अमात्यपदात् च्यावयित्वा तस्य सर्वस्वापहरणं कृतमिति एष दृष्टान्तः ॥ ३६७३ ॥ ३६७४ ॥
साम्प्रतमुपनयमाहअकरणे पासायस्स उ, जह सोऽमच्चो उ डंडितो रन्ना । एमेव य आयरिए, उवणयणं होति कायव्वं ॥ ३६७५ ॥
यथा प्रासादस्याऽकरणे सोऽमात्यो राज्ञा दण्डितः, एवमेवाऽऽचार्ये उपनयनं भवति ||३७३-३६८० कर्त्तव्यम्, तच्चैवं- राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याचार्यस्य सिद्धिप्रासाद- ४ आहारकरणे
अमात्यदृष्टान्तः साधनार्थमादेशो दत्तः । स च कर्मकरस्थानीयानां साधूनां द्रव्यादिषु तत् करोति यथा ते सर्वे पलायन्ते ॥ ३६७५॥
१४३८ (B)
गाथा
तथा चाह
For Private and Personal Use Only