________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४३६ (A)
܀܀܀
www.kobatirth.org
दारभ्य यावद् द्वात्रिंशत् कवला इति । अत्र चोदकवचनं - ' यद्येवमष्टौ इत्यादिसूत्रोपनिबद्धं नाममात्रं वचनमात्रम्।' आचार्य आह- 'सिद्धिप्रासादनिर्मापणाय योगानां संधारणनिमित्ततन्मध्यमुपात्तं सूत्रेण ततो न कश्चिद्दोषः तथा चात्र प्रासादो भवति दृष्टान्तः, स चाग्रे भावयिष्यते' । ३६६५ ॥
सम्प्रति यदुक्तं- 'छम्मासा हावते उ बत्तीसा' इति तद्भावनार्थमाह
छम्मासा खवणंतम्मि, सित्थादण्हातु लंबणं । तत्तो लंबणवुड्डीए, जावेक्कतीस संथारे || ३६६६ ॥
एक्कमिक्कंतु हावित्ता, दिणं पुव्वकमेण उ । दिणे दिणे उ सित्थादी, जावेक्कतीस संथरे ॥ ३६६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
षण्मासक्षपणान्ते सिक्थमेकम्, आदिशब्दात् असंस्तरणे द्वे त्रीणि चत्वारि इत्यादिपरिग्रहः, अश्नातु भुङ्क्तामसंस्तरणे च सिक्थपरिवृद्धिस्तावत् कर्त्तव्या यावल्लम्बनं कवलो भवति, तेनाप्यसंस्तरणे तत एकस्माल्लम्बनादारभ्य तावल्लम्बनपरिवृद्धया यावदेकत्रिंशत् कवलाः ।
For Private and Personal Use Only
गाथा
| ३६६६-३६७२ ऊनोदरताप्रकारा:
१४३६ (A)