________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः १४३६ (B)
एतदपि षण्मासक्षपणसंस्तरणे द्रष्टव्यम्। असंस्तरणे तु षण्मासेभ्य एकैकं दिनं हापयित्वा दिने दिने पूर्वक्रमेण एकैकवृद्ध्या सिक्थादि तावद् वर्द्धयेत् यावदेकत्रिंशत् कवला भवन्ति। एतदपि संस्तरणे असंस्तरणे द्वात्रिंशदपि द्रष्टव्याः ॥ ३५६६॥ ३५६७॥ ___ परमेतत् कस्यापि कदाचिदन्यथा प्रकामभोगित्वदोषप्रसक्तेः। यत आह- एत्तो एगेण वि | कवलेण ऊणगमाहारेमाणे समणे निग्गंथे नो पगामरसभोइ त्ति वत्तव्वं सिया' इह प्रकामग्रहणेन निकाममपि सूचितमतो द्वे अपि व्याख्यानयति
पगामं होति बत्तीसा, निकामं जं तु निच्चसो । दुए वि जहया ते उ, गेही हवति वजिया ॥ ३६६८ ॥
द्वात्रिंशत् कवलाः प्रकामं भवति, त एव यन्नित्यशः सर्वकालं भुज्यते तन्निकामम्।। एते द्वे अपि द्वात्रिंशत्कवलेभ्य एकेनापि कवलेन ऊनमाहारमाहारयता[प्रकाम-निकामे] परित्यजता गृद्धिः वर्जिता भवति ॥ ३५६८ ॥
|१४३६ (B)
गाथा ३६६६-३६७२ ऊनोदरताप्रकाराः
१. होइ-मु. पु. प्रे. ॥
For Private and Personal Use Only