SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् | अष्टम उद्देशकः १४३५ (A) कुत्सिता कुटी कुक्कुटी शरीरमित्यर्थः । तस्याः शरीररूपायाः कुक्कुट्या अण्डकमिवाण्डकं मुखं, केन पुनः कारणेनाण्डकं मुखमुच्यते ? तत आह- यतो यस्मात् चित्रकर्मणि गर्भे उत्पाते वा पूर्वं देहस्य वदनं मुखं निष्पद्यते पश्चात् शेषम्, ततः प्रथमभावितया मुखमण्डकमित्युच्यते ॥ ३६६३॥ थलकुक्कुडिप्पमाणं, जं वाऽणायासिए मुहे खिवति। इयमन्नो तु विगप्पो, कुक्कुडिअंडोवमे कवले ॥ ३६६४ ॥ इह कवलप्रक्षेपणाय मुखे विडम्बिते यद् आकाशं भवति तत् स्थलं भण्यते । स्थलमेव | कुक्कुट्यण्डकं स्थलकुक्कुट्यण्डकम्, तस्य प्रमाणं यदनायासिते मुखे कवलं प्रक्षिपति । किमुक्तं भवति? यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत् स्थलकुक्वट्यण्डकप्रमाणं, गाथायामण्डकशब्दलोपः प्राकृतत्वात्। अयमन्यः कुक्कुट्यण्डकोपमे | कवले विकल्प: अयमन्योऽर्थः कुक्कुट्यण्डकप्रमाणमात्रस्येत्यर्थः । एतेन कवलप्रमाणेन अष्टादिना सङ्ख्या द्रष्टव्या ॥ ३६६४ ॥ १. खिवसि-पु. प्रे. ॥ गाथा ३६६१-३६६५ कवलस्वरूपादिः . |१४३५ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy