________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम
उद्देशकः १४३४ (B)
द्वादश कुक्कुट्यण्डकप्रमाणमात्रान् कवलान् आहारमाहारयन् निर्ग्रन्थः अपार्दाऽवमौदर्यः।। षोडश आहारयन् द्विभाग [ प्राप्तः अर्धावमौदर्यः ]। चतुर्विंशतिकवलानाहारयन् [विभाग] प्राप्तः [ अंशिकः ]। एकत्रिंशतं कवलानाहारयन् किञ्चिदूनावमौदर्यः । द्वात्रिशतं कुक्कुड्यण्डकप्रमाणमात्रान् कवलानाहारयन् श्रमणो निर्ग्रन्थः प्रमाणप्राप्तः। इत एकेनापि कवलेन ऊनमाहारमाहारयन् श्रमणो निर्ग्रन्थो न प्रकामभोजीति वक्तव्यः स्याद्। एष सूत्राक्षरसंस्कारः। सम्प्रति भाष्यप्रपञ्चःनिययाहारस्स सया, बत्तीसइमो जो भवे भागो। तं कुक्कुडिप्पमाणं, नायव्वं बुद्धिमंतेहिं ॥ ३६६२ ॥ निजकस्याहारस्य सदा यो द्वात्रिंशत्तमो भवति भागस्तत् कुक्कुटीप्रमाणं, पदैकदेशे
४३६६१-३६६५ पदसमुदायोपचारात्, कुक्कुट्यण्डकप्रमाणं ज्ञातव्यं बुद्धिमद्भिः ॥३६६२ ॥ अत्रैव व्याख्यानान्तरमाह
| स्वरूपादिः कुच्छिय कुडी य कुक्कुडि, सरीरगं अंडगं मुहं तीए।
|१४३४ (B) जायइ देहस्स जतो, पुव्वं वयणं ततो सेसं ॥ ३६६३ ॥
गाथा
कवल
For Private and Personal Use Only