________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४३४ (A)
www.kobatirth.org
अतिरेकोऽपि खलु कल्पते उपधिरित्युच्यमाने लक्षणमतिप्रसक्तं ततो माऽनेनैव प्रसङ्गेनाहारमप्यतिप्रमाणं कुर्यादिति हेतोराहारे मानमधिकृतसूत्रेणोच्यते यतोऽतिप्रमाणे गृह्यमाणे आहारे बहवो दोषाः 'हाएज्ज व वामेज्ज व' इत्यादिरूपाः || ३६६० ॥
प्रकारान्तरेण सम्बन्धमाह -
अहवावि पडिग्गहगे, भत्तं गिण्हंति तस्स किं माणं ।
जं जं उवग्गहं वा, चरणस्स तगं तगं भणति ॥ ३६६१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथवेति प्रकारान्तरोपदर्शने, अपिशब्दः सम्बधस्यैव समुच्चये, पूर्वसूत्रेण प्रतिग्रहक उक्तः, तस्मिंश्च प्रतिग्रहके साधवो भक्तं गृह्णन्ति, तस्य भक्तस्य किं प्रमाणम् ? इत्यनेन प्रमाणमभिधीयते। अथवा यद् यत् चरणस्य चारित्रस्योपग्रहे वर्त्तते तत्तत् सूत्रकारो वदति ॥ ३६६१ ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
अष्टौ कुक्कुट्यण्डकप्रमाणमात्रान् कवलान् आहारमाहारयन् निर्ग्रन्थोऽल्पाहारो भण्यते । १. अथवा किं सम्बन्धेन यत् पु. प्रे. ॥
For Private and Personal Use Only
गाथा
| ३६६१-३६६५ कवल
* स्वरूपादिः
१४३४ (A)