________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १४३२ (A)
उवहय उग्गहण लंभे, उग्गहण विगिंच मत्तए भत्तं । अप्पजत्ते तत्थ दवं उग्गहभत्तं गिहिमत्तेण ॥ ३६५६ ॥ अपहुप्पंते काले, दुल्लभदवऽभाविते य खेत्तम्मि । मत्तगदवेण धोवइ, मत्तगलंभे वि एमेव ॥ ३६५७ ॥
उपहतस्य असाम्भोगिकस्यावग्रहणस्य पतद्ग्रहस्य अवग्रहलाभे साम्भोगिकपतद्ग्रहलाभे विवेचनं परिष्ठापनं कर्त्तव्यम्। एवं च तस्य पतद्ग्रहः साम्भोगिको मात्रकमसाम्भोगिकं, तत्र | यदसाम्भोगिकं तस्मिन् भक्तं ग्राह्यं यच्च साम्भोगिकं तत्र पानीयं, ततो मात्रके तेन भक्तं ग्राह्यं पश्चात् पतद्ग्रहपानीयेन तस्य कल्पो दातव्यः । यदि मात्रके गृहीतेन भक्तेन न संस्तरति तदा अपर्याप्ते असंस्तरणे तत्र मात्रके द्रवं गृह्णाति, अवग्रहे पतद्ग्रहे भक्तं तत्र भुक्त्वा गृहस्थभाजनेन (भोज्यं) पानीयमानीय पतद्ग्रहस्य कल्पो देयः । अथ यावता कालेन गृहस्थात् पानीयमानीयते तावान् कालो न प्राप्यते दुर्लभं वा तत्र द्रवं ततो न यतस्ततो गृहस्थेभ्यो द्रवं लभ्यते, यदि वा तत्क्षेत्रमभावितं संयतैः अतो गृहस्था न ददति भाजनं यत्र पानीयं गृह्यते तदा मात्रकगृहीतेनैव पानीयेन पतद्ग्रहो धाव्यते प्रक्षाल्यते तथापि स नोपहन्यते। एवमेव अनेनैव प्रकारेण
सूत्र १७
गाथा ३६५६-३६६० | ऊनोदरतादि
स्वरूपम्
१४३२ (A)
For Private and Personal Use Only