________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १४३१ (A)
स पुनः प्रत्युत्थितो यदि तस्योपकरणमुपहतमथवा नास्ति तर्हि गीतार्थोऽन्यमुपधिमुद्गमयन् उत्पादयन् आगच्छति ॥ ३६५२ ॥
कुत्र कुत्र स्थाने उत्पादयन् आगच्छति ? इत्याहसंजयभावियखेत्ते, तस्सऽसतीए उ चक्खुबेटिहयं । तस्सऽसति विंटलहए, उप्पाएंतो उ सो एति ॥ ३६५३ ॥
संयतभावितक्षेत्रं नाम-यत्र क्षेत्रे संयतत्वेन स्थितस्तस्मिन् संयतभावितक्षेत्रे उत्पादयन् । तस्य असति अभावे 'चक्षुबिण्टिहते' दृष्ट्या परिचिते। तस्याप्यभावे 'विण्टलहते' विण्टलहतं नाम यत्र पूर्वं विण्टलैराहारौपधिशय्या उत्पादितास्तस्मिन् उत्पादयन् आगच्छति ॥ ३६५३ ॥
जाणंति एसणं वा, सावग दिट्ठी उ पुव्वझुसिया वा । वेंटलभाविय नेण्हिं, किं धम्मो न होइ गेण्हेज्जा ॥ ३६५४ ॥
स च उत्पादयति उद्गमोत्पादनैषणादोषैर्विशुद्धं, तांश्च दोषान् तेभ्यः कथयति, यदि वा | यत्र संयतत्वेन विहतो दृष्टया वा पूर्वं जुषिताः परिचितास्ते श्रावकास्ते च स्वत एव दोषान्
गाथा ३६५०-३६५५
अवधाने उपधिहननस्वरूपम्
१४३१ (A)
For Private and Personal Use Only