________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४३० (A)
निश्शङ्कितोऽपि गत्वा यदि द्वाभ्यां वर्गाभ्यां संविग्नैरसंविग्नैर्वा इत्यर्थः, चोदितोऽनुशिष्टस्सन् तेषामुपाश्रयाद् यदि तत्क्षणमेव निर्गच्छति तदा तस्योपधिर्नोपहन्यते। अथ तत्क्षणं न निर्गच्छति वसति वा तदा उपहन्यते। अथवा यदि तस्यैवं परिणामो जायते-अत्रैव तिष्ठामि तदाऽपि तस्य तत्र परिणतस्योपधेर्घातः। ततः तस्योपधिः कथमप्यागत उपहत इति कृत्वा परिष्ठाप्यते ॥ ३६४९ ।।
सम्प्रति ‘पडिलेहण निक्खिवणमप्पणोऽट्ठाए अन्नेसिमि'त्यस्य व्याख्यानमाहअत्तट्ठपरट्ठा वा, पडिलेहिय रक्खितो वि उ न हम्मे ।
गाथा एवं तस्स उ नवरिं, पवेस वइयादिसू भयणा ॥ ३६५० ॥
३६५०-३६५५
अवधाने स गतः सन् यदि चिन्तयति- तेषामेवेदमुपकरणं दास्यते अथवा मम भविष्यति, एवमात्मार्थं || उपधिहनन
स्वरूपम् [ परार्थं ]वा उभयकालं प्रत्युपेक्षितो निरुपद्रवस्थाननिक्षेपणेन च रक्षितः, अपिशब्दः प्रागुक्तापेक्षया समुच्चये, तुरवधारणे भिन्नक्रमे च, नैव हन्यते, नवरं केवलं प्रत्यागच्छतो |१४३० (A) व्रजिकादिषु प्रवेशे भजना। किमुक्तं भवति? स प्रत्यागच्छन् यदि वजिकादिषु सजति
४४
For Private and Personal Use Only