________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१४२८ (B)
सम्प्रत्यस्या एव विवरणमाहघेत्तूणऽगारलिंगं, वती व अवती व जो उ ओहावी ।। तस्स कडिपट्टदाणं, वत्थु वासज जं जोग्गं ॥ ३६४५ ॥
यो लिङ्गेनाऽवधावी स द्विविधोऽगारलिङ्गं वा गृहीत्वा व्रजति स्वलिङ्गसहितो वा। तत्र | योऽगारलिङ्गं गृहीत्वा अवधावति तस्यैष विधि:- पथि व्रजन् केनाप्यनुशिष्टो यदि निवर्त्तते उपतिष्ठते च 'मां प्रव्राजयत' इति, तदा तस्य मूलं दीयते, स पुनः अगारलिङ्गं गृहीत्वा सम्प्रस्थितो व्रती वा स्यादवती वा, अणुव्रतानि वा गृहीत्वा व्रजति अव्रती वा सन् इत्यर्थः । तस्योभयस्यापि कटीपट्टको दातव्यः, वस्तु वाऽऽसाद्य यद्योग्यं तद्दातव्यम्। किमुक्तं भवति? मा प्रद्वेषं यायात् | दारुणस्वभावो वा[किञ्चिदनिष्टं कुर्यात्] तत उपरि प्रावरणमपि दीयन्ते, अथवा राजादिः प्रव्रजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये। तदेवमगारलिङ्गावधावी भणितः ।। ३६४५ ॥
सम्प्रति स्वलिङ्गावधाविनमधिकृत्याहजइ जीविहिंति जइ वा, वि तं धणं धरइ जइ व वोच्छंति । लिंगं मोच्छिति संका, पविट्ठवुच्छेव उवहम्मे ॥ ३६४६ ॥
गाथा ३६४४-३६४९
लिनेन अवधाविस्वरूपम्
|१४२८ (B)
For Private and Personal Use Only