________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशक: १४२८ (A)
जीविष्यन्ति, यदि वा तत् साधारणं धनमविनष्टं स्याद् यदि वा मां ते वदिष्यन्ति उन्निष्क्राम इति, तदा उन्निष्क्रमिष्यामि, यदि पुनस्ते स्वजना मृता भवेयुस्तद्वा साधारणं विनष्टं, न वा कश्चिन्मां वदेत् निष्क्रामेति तदा पार्श्वस्थादिविहारमभ्युत्थास्यामि' एवं संकल्पं कुर्वन् शङ्की। एवंरूपसंकल्पविकलोऽशङ्की। तत्र शङ्किनि लिङ्गावधाविनि विहारे च विहारावधाविनि एक | एव गमः । किमुक्तं भवति? यत् विहारावधाविन्युक्तं तल्लिङ्गावधाविन्यपि शङ्किनि वक्तव्यमिति॥ ३६४३ ॥
संविग्गमसंविग्गे, संकमसंकाए परिणए विवेको । पडिलेहणनिक्खवणं, अप्पणोऽढाए अन्नेसिं ॥ ३६४४ ॥
स शङ्की अशङ्की वा पथि अनुशिष्यमाणो यदि संविग्ने असंविग्ने वा परिणतो भवति वसति वा तदा तस्योपकरणमुपहतमिति तस्य विवेकः कर्त्तव्यः । अथ स गतश्चिन्तयतिएतदुपकरणं तेषामेव दास्यते मम वा भविष्यति तदा निष्क्रामतोऽनिष्क्रामतो वा उभयकालं प्रतिलेखयतो यतनया निक्षिपतस्तदुपकरणं नोपहन्यते, प्रत्यागच्छन् पुनर्यदि वजिकादिषु सजति तत उपहन्यते। अथ न सजति नोपहन्यते इति गाथासक्षेपार्थः ॥ ३६४४॥
गाथा ३६४४-३६४९
लिङ्गेन अवधाविस्वरूपम्
१४२८ (A)
For Private and Personal Use Only