________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
१४२७ (A)
सो पुण पडिच्छतो वा, सीसे वा तस्स निग्गतो होज्जा । सीसं समणुन्नायं, गेण्हंतियरम्मि भयणा उ ॥ ३६४१ ॥
संविग्नैरनुशिष्टो यदि ब्रूते- 'अहमिहैव युष्माकं समीपे तिष्ठामि' तदा स प्रष्टव्यो 'येषां समीपात् त्वमागतस्तस्य शिष्यो वा त्वं भवसि प्रातीच्छिको वा ?' तत्र यदि शिष्यस्तर्हि | स भण्यते- तान् आत्मीयान् आचार्यानापृच्छस्व मुत्कलापय। अथ स आप्रच्छनं नेच्छति ते | तेषां निवेदयन्ति यथा- 'यौष्माकीणः शिष्योऽस्माकं पार्श्वे समागतो वर्तते स बहुधाऽनुशिष्टः परं प्रतिनिवर्तितुं नेच्छति किन्तु ब्रूते अहं युष्माकं पार्श्वे स्थास्यामि।' एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति, अथ नानुजानन्ति, न प्रतीच्छन्ति । इतरो नाम प्रातीच्छिकस्तस्मिन् भजना ॥ ३६४१ ॥
तामेव प्रतिपादयन्तिउद्दिट्ठमणुद्दिवे, उद्दिवऽसमाणियम्मि पेसंति ।
वायंति वणुन्नायं, कडे पडिच्छंति उ पडिच्छं ॥ ३६४२ ॥ १. अवधावन्ननुशिष्टः- सं. ॥
गाथा ३६३७-३६४३ विहारेण अवधाविस्वरूपम्
|१४२७ (A)
For Private and Personal Use Only