________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४२३ (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवधाविनो द्विविधाः, लिङ्गेन विहारेण च । लिङ्गेन उत्प्रव्रजितुकामाः, विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति ज्ञातव्याः । षडप्येते कारणिकाः १ निष्कारणिका : २ औपदेशिकाः ३ अनौपदेशिका: ४ लिङ्गेनावधाविन: ५ विहारेणावधाविनश्च ६ प्रायेणैते एकाकिनो विहरन्ति गच्छेन वा । औपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छान्निर्गतास्तेन एकाकिनो भण्यन्ते, इतरेऽपि पञ्च यद्यपि वृन्देन हिण्डन्ते तथापि गच्छान्निर्गता इति एकाकिनः प्रोच्यन्ते । तत उक्तं षडप्येते विहारिणः एकाकिनः, तहिं ति, तेषु षट्सु मध्ये द्वयोः समनुज्ञा द्वयोः साम्भोगिकत्वम् । तद्यथा- अशिवादिकारणिका उपदेशाऽऽहिण्डकाश्च एतैरानीतानि भाजनानि ग्रहीतव्यानि शेषैरानीतानां भजना, कारणे गृह्यन्ते निष्कारणे नेति ॥ ३६२८ ॥
निक्कारणिऽणुवदेसिए य आपुच्छिऊण वच्चंते ।
असाति ताहे उ, वसभाओ तहिं इमेहिं तु ॥ ३६२९ ॥ निष्कारणिकोऽनौपदेशिकश्च यद्याचार्यमापृच्छ्य व्रजति तदा तत्र व्रजने एभिर्वक्ष्यमाणै
र्वचनैर्वृषभा अनुशासति ॥ ३६२९ ॥
कैर्वचनै: ? इत्याह
For Private and Personal Use Only
܀܀܀܀܀
गाथा
| ३६२५-३६२९ एकानेकस्वरूपम्
१४२३ (B)