________________
Shri Mahavir Jain Aradhana Kendra
***
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशक:
१४२२ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रावकं वा तत्र व्रजन्तं संदेशयति यथा तव योग्यं पात्रं मया आनीतम् इच्छाकारेणाऽऽगत्य गृह्णीत प्रेषयत वा कमपि यो नयतीति' । अथ पुनः स न ज्ञायते क्वापि तिष्ठतीति ततस्त्रिषु क्षुल्लकेषु समवसरणेषु मृगयेत । इयमत्र भावना - अज्ञायमाने समवसरणं साधुमेलापकरूपं गत्वा पृच्छति, यथा- 'अमुकः कुत्र विद्यते ?' तत्र यदि स्वरूपतो न दृष्टो नापि वार्त्तयोपलब्धस्तदा द्वितीये समवसरणे पृच्छ्यते । तत्राप्यदृष्टेऽनुपलब्धे वा तृतीयेऽपि पृच्छ्यते । एवं त्रिषु क्षुल्लकेषु समवसरणेषु मध्ये यत्रैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति, अथ न दृष्टः केवलमुपलब्धो वार्त्तया, यथा- अमुकस्थाने स तिष्ठतीति । स तत्र स्वयं वा नयति अन्यस्य वा हस्ते प्रेषयति ॥ ३६२४ ॥
अथ त्रिष्वपि समवसरणेषु न दृष्टो नाप्युपलब्धस्तत आह
एगे वि महंतम्मि उ, उग्घोसेऊण नाउ नेइ तहिं ।
अह नत्थि पवित्ती से, ताहे इच्छाविवेगो वा ॥ ३६२५ ॥
महति समवसरणे पुनरेकस्मिन्नपि कुत्र अमुकः ? इत्युद्घोषणां कृत्वा यदि स्वयं दृष्टस्तत इच्छाकारपुरस्सरं तथैव समर्पयति; अथ वार्त्तयोपलब्धस्तर्हि तत्र स्वयं नयति अन्यस्य वा
For Private and Personal Use Only
गाथा
| ३६२५-३६२९ एकानेक
स्वरूपम्
१४२२ (A)