________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः १४२० (A)
तद्विषये अध्युपपात उत्कृष्टोऽभिलाषो भवति ततः स मात्रकं याचते, स यत् याचते तत् तस्य दातव्यम्, अदाने चत्वारो लघुकाः, यतः स एतस्मिन्नदीयमाने रोदिति अधृत्या च महती परितापनोपजायते ततः शून्यचित्तो भवति, भूतेन वा ग्रस्यते, वृद्धस्याप्यदाने चत्वारो लघवः, स हि भाजनानि याचितुं न शक्नोति ततोऽदाने अधृत्या यत् प्राप्नोति तन्निमित्तमपि तस्य प्रायश्चित्तमापद्यते । गतं बालद्वारं वृद्धद्वारं च ॥ ३६१८ ॥
सम्प्रति ग्लानद्वारमाहअतरंतस्स अदेंते, तप्पडियरगस्स वा वि जा हाणी । जुंगितो पुव्वनिसिद्धो, जाति विदेसे य से पच्छा ॥ ३६१९ ॥
अतरतो ग्लानस्य तत् प्रतिचारकस्य च यदि न ददाति तदा प्रायश्चित्तं त एव चत्वारो ||३६१९-३६२४ लघवः, तथा भाजनमृते प्रतीचारकं वा विना या ग्लानस्य हानिस्तन्निमित्तमपि तस्य प्रायश्चित्तम्। पात्रकगतं ग्लानद्वारम्। जुङ्गितद्वारमाह-जुङ्गितो द्विविधः, जात्या शरीरेण च। जात्या डोम्बादि || वितरणविधिः इतरश्छिन्नपादो गताक्ष इत्यादि। एष द्विविधोऽपि पूर्वमेव प्रतिषिद्धो यथा प्रवाजयितुं न |१४२० (A)
गाथा
१. तन्निष्पन्नमपि मु. पु. प्रे. ।। २. असाम्भोगिक इत० पु. प्रे.॥
For Private and Personal Use Only