SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४१९ (B) अद्धाण बालवुड्ढे गेलन्ने जुंगिए सरीरेण । पायच्छि-नास-कर-कन्नं संजतीणं पि एमेव ॥ ३६१७ ॥ दारगाहा। अध्वनि वर्तमानानामध्वनिर्गतानाम् इत्यर्थः, उपलक्षणमेतत् तेनावमौदर्यनिर्गतानाम् अशिवनिर्गतानाम्, अन्तरा विस्मरणतः पतितोपधीनां, तथा बालस्य वृद्धस्य ग्लानस्य शरीरेण जुङ्गितस्य हीनस्य, केनाङ्गेन हीनस्येत्यत आह- पादेनाक्ष्णा नासया करेण कर्णेन वा एवमेव संयतीनामप्यदाने प्रायश्चित्तम्, एष द्वारगाथासक्षेपार्थः ॥ ३६१७ ॥ साम्प्रतमेनामेव विवरीषुराहअद्धाण ओम असिवे, उदूढाण वि न देति जं पावे । बालस्सझोवाते, थेरस्सऽसती य जं कुज्जा ॥ ३६१८ ॥ अध्वनिर्गतानाम् अवमौदर्यनिर्गतानाम्, अशिवनिर्गतानाम्, उदूढानाम् अन्तरा विस्मरणत: ||१४१९ (B) पतितस्तेनापहृतोपधीनां यदि न ददाति तदा प्रायश्चित्तं चत्वारो लघवः । यच्च भाजनैर्विना ते प्राप्स्यन्ति तन्निमित्तमपि तस्य प्रायश्चित्तं, गतमध्वद्वारम् । तथा बालस्य उत्कृष्टमात्रकं दृष्ट्वा गाथा ३६१४-३६१८ पात्रग्रहणसामाचारी For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy