________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
अष्टम उद्देशकः १४१९ (A)
समाननिर्देशे चत्वारो भङ्गाः । एवमसमाननिर्देशेऽपि द्रष्टव्यास्तद्यथा-संयतः संयती निर्दिशति, संयतः संयती:२ संयताः संयतीम्३ संयताः संयती:४ एवं कालगते प्रतिभग्ने वा सहाये दुर्लभद्वारे च द्रष्टव्यम् ॥ ३६१५ ॥
सच्छंदमणिद्दिद्वे, पावणनिद्दिट्ठमंतरा देति । चउलहु आदेसो वा, लहुगा य इमेसि अदाणे ॥ ३६१६ ॥
तत्र यदि न निर्दिष्टममुकस्यामुकानां वा दातव्यमिति तदा स्वच्छन्दो यस्मै रोचते तस्मै ददाति, यदि पुनर्निर्दिष्टं ततो यनिर्दिशति एकमनेकान् मिश्रान् वा तेषां दातव्यम्, एतन्निर्दिष्टे प्रापणम्। अथ यस्य निर्दिष्टं सो अन्यत्र अन्तरा अपान्तराले अन्यस्मै ददाति तदा तस्मिन् अन्यस्मै ददति प्रायश्चित्तं चत्वारो लघुकाः, आदेशो वा अत्र विद्यते मतान्तरमप्यस्तीति भावः । तदिदं केषाञ्चित् मतेनान्यस्य दाने अनवस्थाप्यं तेषां प्रायश्चित्तमिति। तथा अमीषां वक्ष्यमाणानामदाने चत्वारो लघवः ॥ ३६१६ ॥
केषामित्याह
गाथा ३६१४-३६१८ पात्रग्रहणसामाचारी
|१४१९ (A)
१. प्रमाणम् - सं.॥
For Private and Personal Use Only