SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४१८ (B) www.kobatirth.org भिक्षुः क्षुल्लकश्च गणी द्विविध आचार्य उपाध्यायश्च । एवमेते पञ्च भवन्ति । या अपि स्त्रियो निर्दिशति ता अपि पञ्च, तद्यथा- प्रवर्त्तिनी अभिसेच्या भिक्षुकी स्थविरा क्षुल्लिका च ॥ ३६१४ ॥ तथा चाह एमेव इत्थवग्गे, पंचगमा अहव निद्दिसति मीसे । दाडं वच्चति 'पेसेति वा विणिंते पुण विसेसो ॥ ३६१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवमेव अनेनैव संयतगतेन प्रकारेण स्त्रीवर्गे संयतीवर्गे निर्दिश्यमाने पञ्च गमा भवन्ति । अथवा यत्रानेकान् निर्दिशति तत्र मिश्रान् निर्दिशति, संयतानपि निर्दिशति संयतीरपि । तदेतदागमद्वारेऽभिहितम् । सम्प्रति गमद्वारे वक्तव्यं, तत्रापि तथैव नवरं दत्त्वा व्रजति प्रेषयति व अग्रे गतः । नीते पुनर्विशेषः स चायं नीतानि तानि भाजनानि समाने निर्दिशति असमाने वा, संयतस्य समानो वर्गः संयतवर्गोऽसमानः संयतीवर्गः । अत्र च त एव चत्वारो भङ्गाः । तद्यथा - संयतः निर्दिशति संयतम् संयतः संयतान् संयताः संयतं संयताः संयतान् एवं १. पेसे वावी - ला. ॥ २. च- सं. ॥ For Private and Personal Use Only गाथा | ३६१४-३६१८ * पात्रग्रहणसामाचारी १४१८ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy