________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १४१८ (A)
भक्तं पतद्ग्रहे गृहीतं पानीयं मात्रके, यत्र च भोजनकरणार्थमवतीर्णस्तत्र सागारिकाः, ततो। यत्रैव भिक्षां गृह्णाति तत्रैव भुङ्क्ते तथा च सति महती छोतिरिति जुगुप्सा क्रियेत, ततस्तद्रक्षणाय कमढके भोजनं करोति। तथा विमात्रको मात्रकात् मनाक् समधिक ऊनतरो वा, तत्र मात्रकं कदाचिद् भिद्येत अन्यच्च तत्र देशे भाजनं दुर्लभं तत एतेन प्रयोजनं भविष्यतीति स ध्रियते। प्रश्रवणमात्रकोऽपि सागारिकभयेन यतनाकरणाय ग्लानस्याऽऽचार्याणां वाऽर्थाय ध्रियते, एषा तत्कार्यप्ररूपणा ॥ ३६१३ ॥ सम्प्रति 'दुविहा एगमणेगा' इत्यादिव्याख्यानार्थमाह
एगो निद्दिस एगं, एगो अणेगा अणेग एगं वा । णेगाणेगे ते पुण, गणिवसभे भिक्खुखुड्डे य ॥ ३६१४ ॥ ये पात्राणि प्रयच्छन्ति ते द्विविधाः तद्यथा- एको वा, स्यादनेके वा, येभ्योऽपि ददति ४३६१४-३६१८
पात्रग्रहणपात्राणि तेऽपि द्विविधा- एको वा स्यादनेके वा, तत्रैको नियमतोऽनेके [च] विकल्पतो निर्देश्या
सामाचारी भवन्ति । अत्र चतुर्भङ्गिका एको दाता एकं सम्प्रदानं निर्दिशति 'आचार्यस्यामुकस्य वृषभस्य
|१४१८ (A) भिक्षोः क्षुल्लकस्य वा दास्यामि' एष प्रथमो भङ्गः । एकोऽनेकान्निर्दिशतीति द्वितीयः । अनेके एकमिति तृतीयः । अनेके अनेकानिति चतुर्थः । ते पुनर्निर्देश्याः के इत्याह-गणी वृषभो
गाथा
For Private and Personal Use Only