________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४१७ (B)
܀܀܀
܀܀܀܀܀
www.kobatirth.org
कालगतद्वारम् अधुना दुर्लभद्वारमाह-दुर्लभानि पात्राणि यस्मिन् देशे स दुर्लभपात्रस्तस्मिन्नपि इमानि वक्ष्यमाणानि [पञ्च] भाजनानि धारयेत् ॥ ३६१३ ॥
तान्येवाह
नंदिपडिग्गह विपडिग्गहो य तह कमढगं विमत्तो य । पासवणमत्ततो विय, तक्कज्जपरूवणा चेव ॥ ३६१३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन् देशे पात्राणि दुर्लभानि तत्रेमान्यतिरिक्तानि ध्रियन्ते, तद्यथा - नन्दीपतद्ग्रहो विपतद्ग्रहः कमढकं विमात्रकं प्रश्रवणमात्रकं च । तत्कार्यप्ररूपणा चैवं कार्यानन्दीतोऽतिशयेन महान् पतद्ग्रहः, तेनाऽध्वनि अवमौदर्ये परचक्राऽवरोधे च प्रयोजनम् । तथा च कश्चित् ब्रूयात् 'दिने दिने युष्माकमहमेकं पात्रं भरिष्यामि' ततस्तत् नन्दीपात्रं भार्यते, एतेन कारणेन गच्छोपग्रहनिमित्तं धार्यते । विपतद्ग्रहः पतद्ग्रहात् किञ्चिदूनः, स एतदर्थं धार्यते कदाचित् पतद्ग्रहो भिद्येत अन्यच्च भाजनं तस्मिन् देशे दुर्लभं तत एतेन कार्यं भविष्यतीति । कमढकः सागारिकरक्षणाय ध्रियते, तथा च कदाचिदेकाकी जायते तत्र च
For Private and Personal Use Only
गाथा
३६०८-३६१३
पात्रग्रहणादिस्वरूपम्
१४१७ (B)