________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः १४१५ (B)
܀܀܀
भणितं तादृशं कर्त्तव्यम् । तत्र यावन्ति सन्दिष्टान्याचार्येण तावन्ति गृहीतानि, यदि न केनचित् भणितपूर्वं यथा ममापि योग्यं पात्रं ग्राह्यमिति तदा अलं समर्थं ध्रुवं चिरकालावस्थायि पात्रं धरणीयमिति न्यायमनुसृत्य ते चिन्तयन्ति-प्रायोग्यमेतत् पात्रं, तस्मात् गृह्णीमो गृहीते स एव । ग्राहकश्चिन्तयति अहमाचार्यानुज्ञातं धारयिष्यामि, यदि वा स एवाचार्यो धारयिष्यति अन्यो | वा साधुर्धारयिष्यति एवमतिरिक्तपतद्ग्रहसम्भवः ॥ ३६०६ ॥ सम्प्रति ग्रहणे गृहीते च यत् भणितं कल्पपीठिकायां तं चेव विनेयजनानुग्रहाय दर्शयतिओमंथपाणमादी, गहणे तु विहिं तओ पउंजंति ।
गाथा गहिए य पगासमुहे, करेंति पडिलेह दो काले ॥ ३६०७ ॥
३६०२-३६०७ अवमन्थमधोमुखं कृत्वा प्राणादीन् खोटनेन भूमौ यतनया पातयन्ति, अमुं विधिं तत्र |
अतिरिक्त
पात्रग्रहणग्रहणे प्रयुञ्जन्ति, गृहीते च तानि पात्राणि प्रकाशमुखानि करोति, तथा द्वौ कालौ ।
सामाचारी प्रातरपराह्ने च प्रत्युपेक्ष्यते ॥ ३६०७ ॥
|१४१५ (B) सम्प्रति तेषु पात्रेष्वानीतेषु विधिमाह
For Private and Personal Use Only