________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४१५ (A)
तइतो लक्खणजुत्तं, अहियं वीसाए ते सयं गेण्हे । एए तिन्नि विगप्पा, होतइरेगस्स नायव्वा ॥ ३६०५ ॥
तृतीयः प्रकारः पुनरयं- ते प्रेषिताः साधवो विंशतेरधिकं पात्रं स्वयमेव गृह्णन्ति। एते त्रयो विकल्पा अतिरिक्तस्य पात्रस्य सम्भवाय ज्ञातव्याः- तदेवं व्यापारितानां छिन्नानि गतानि ॥ ३६०५ ॥
साम्प्रतमाभिग्राहिकाणां छिन्नानि प्रतिपादयितुमाहसच्छंदपडिवन्नवणा, गहिए गहणे य जारिस भणियं । अलथिरधवंधरणियं. सो वा अण्णो व णं धरए ॥ ३६०६ ॥
स्वच्छन्दा नाम आभिग्रहिकास्ते अव्यापारिता एवाऽऽचार्यानापृच्छ्य गतास्ते यदि छिन्नाः | सन्दिष्टास्ततस्तेषामपि सैव सामाचारी या प्राक् व्यापारितानां छिन्नानामुक्ता पडिवण्णवणत्ति, प्रतिज्ञापना नाम-विधिना पात्रादीनां मार्गणा कर्त्तव्या इत्युपदेशदानम्, उद्गमादिशुद्धानि पात्रादीनि प्रतिग्राह्याणीत्युपदेशदानमिति भावः। तथा गृहीते ग्रहणे च यादृशं कल्पाध्ययनपीठिकायां
गाथा ३६०२-३६०७
अतिरिक्तपात्रग्रहणसामाचारी
१४१५ (A)
For Private and Personal Use Only