________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
यदि ते आसन्ना वर्तन्ते तदा आगत्य गुरुं विज्ञपयन्ति। यथा- 'अमुकः साधुर्वदति मम योग्यानि भाजनानि प्रतिगृह्णीत' । अथवा तमेव साधुमभ्यर्थयमानं प्रेषयन्ति यथा 'त्वमेवाचार्य विज्ञपय' । तेषामेवं कुर्वतां प्रायश्चित्तं मासलघु। दूरगतानां पुनरियं वक्ष्यमाणा मर्यादा सामाचारी ॥ ३६०३॥
व्यवहारसूत्रम्
अष्टम उद्देशकः १४१४ (B)
तामेवाह
गेण्हामो अतिरेगं, तत्थ पुण वियाणगा गुरु अम्हं । देहिंति तगं वऽण्णं, साहारणमेव ठावेंति ॥ ३६०४ ॥
गाथा दूरगतान् साम्भोगिकः साधुरवलोक्य ब्रूते- अस्माकमपि योग्यं पात्रमाददीध्वम् ततस्तैरिदं :
३६०२-३६०७ वक्तव्यम् 'अतिरिक्तं पात्रं ग्रहीष्यामः । तत्र पुनर्विज्ञायका अस्माकं गुरवः तदेव वा । अतिरिक्त
पात्रग्रहणअतिरिक्तं पात्रं दास्यन्ति अन्यद्वा, को जानाति कदाचिदतिरिक्तं पात्रं सुन्दरमिति कृत्वा |
सामाचारी स्वयं प्रतिगृह्णन्ति यस्य वा इष्टं तस्मै ददति' एवं साधारणं स्थापयन्ति ॥ ३६०४ ॥
१४१४ (B) उक्तो द्वितीयः प्रकारस्तृतीयमाह
For Private and Personal Use Only