________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४१३ (A)
܀܀܀܀
܀܀܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तान्यपि प्रतिगृह्णीत' एवं भणति तस्मिन् प्रायश्चित्तं लघुको मासः । तेऽपि यदि प्रतिशृण्वन्ति तदा तेषामपि प्रत्येकं प्रायश्चित्तं लघुको मासः । तृतीयो लज्जालुतया न शक्नोति स्वयमाचार्यान् विज्ञपयितुं ततोऽन्येन विज्ञपयति । अथवा कोऽपि शठत्वेन अन्यान् भाणयति, यथा ये ते प्रेष्यन्ते ते ब्रुवते 'यूयमाचार्यान् भणत युष्माकं परिपूर्णेषु लब्धेषु यद्यन्यान्यपि लभध्वं तदा मम कारणेन प्रतिगृह्णीत' । एवं भणति तस्मिन् प्रायश्चित्तं लघुको मासः । तेऽपि यदि यः शठत्वेन भाणयति तस्य यदीच्छन्ति तर्हि तेषां प्रायश्चित्तं मासलघु। तस्मात् तैर्नेष्टव्यं यथा' न भणाम इति । लज्जालोर्वचनेन पुनराचार्यं भणन्ति । तत्र यदा तत्समक्षमाचार्यो भणितः, आचार्येण च समनुज्ञातं तदा यल्लभ्यते अतिरिक्तं लक्षणयुक्तमयुक्तं वा तस्यैव दातव्यम् । द्वितीयं प्रकारमाह गुरुवयणेत्यादि, कोऽपि पथि गच्छतो दृष्ट्वा ब्रूते 'यथा ममापि योग्यानि भाजनानि गृह्णीत'। तत्र यदि प्रत्यासन्नस्तदा तद्वचनं प्रतिग्राह्यम् । किमुक्तं भवति ? आसन्नप्रदेशात् प्रतिनिवृत्त्य गुरुप्रच्छनयो यथा- 'अमुकसाधुरेवं ब्रवीति- ममाप्यर्थाय भाजनानि प्रतिगृह्णीत'। अथवा तमेव प्रेषयति ‘त्वमेवाचार्यं विज्ञपय' एवं कुर्वत्सु तेषु प्रायश्चित्तं मासलघु । अथ दूरे गतांस्तान् साम्भोगकान् दृष्ट्वा ब्रूयुरस्माकमपि योग्यानि भाजनानि गृह्णीत, तत्रैवं वक्तव्यम् अतिरिक्तान्यपि
For Private and Personal Use Only
गाथा
| ३५९८-३६०१ पात्राऽऽनयनायविधिः
१४१३ (A)