________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १४१२ (B)
दुविहा छिन्नमछिन्ना, भणंते लघुको य पडिसुणंते य। गुरुवयण दूरे तत्थ उ, गहिए गहणे य जं वुत्तं ॥ ३५९९ ॥
आभिग्रहिका अपि आचार्यमापृच्छ्य पात्राणामानयनाय गच्छन्ति, ये वा नियुक्ताः, एते द्विविधाः, तद्यथा-छिन्ना अछिन्नाश्च, छिन्ना नाम ये आचार्येण सन्दिष्टाः, यथा- 'विंशतिः पात्राण्यानयितव्यानि', अच्छिन्ना येषां न परिमाणनिरोधः । तत्र ये तावन्नियुक्तास्तेषां छिन्नानां विधिरुच्यते-तत्र छिन्नेषु त्रिभिः प्रकारैरतिरिक्तपतद्ग्रहसम्भवः । तत्राद्येऽपि प्रकारे त्रयः प्रकाराः, तद्यथाः एकः साधुः छिन्नानां सन्देशं श्रुत्वा तत्रैव समक्षमाचार्यस्य ब्रूते- 'क्षमाश्रमणा ! अनुजानीत युष्माकं योग्येषु परिपूर्णेषु पतद्ग्रहेषु लब्धेषु यद्यन्यान्यपि लभेरन् ततस्तान्यपि मम योग्यानि गृह्णन्तु' एवं ब्रुवाणः शुद्धः। अथैवमाचार्यं नानुज्ञापयति किन्त्वेवमेव तान् व्रजतो ब्रूते तर्हि ||३५९८-३६०१ तस्मिन्नेवं भणति प्रायश्चित्तं लघुको मासः। ते चेत् व्रजन्तः प्रतिशृण्वन्ति- 'ग्रहीष्याम इति' पात्राऽऽनयना
यविधिः तदा तेषामपि प्रायश्चित्तं प्रत्येकं लघुको मासः । द्वितीयो व्रजतस्तान् साम्भोगिकान् दृष्ट्वा ब्रवीति'क्व यूयं सम्प्रस्थिताः ?' तैरवाचि- 'पात्राणामानयनायाऽऽचार्येण प्रेषिताः', ततस्तान् स ब्रूते- |४|१४१२ (B) 'यावन्ति युष्माकं सन्दिष्टानि तावत्सु परिपूर्णेषु यद्यन्यानि यूयं लभध्वं ततोऽस्माकं कारणेन
गाथा
For Private and Personal Use Only