________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् अष्टम
उद्देशकः १४१२ (A)
प्रमादतो भिन्नं वाऽग्रेतनं पात्रम्, अग्निना वा ध्यामितं दग्धं, प्रत्यनीकेन हृतं भिन्नं वा, स्तेनैः श्वादिभिर्वा हृतम्, आदिशब्देनाऽत्र शृगालादिपरिग्रहः, शैक्षका वा केचिदुपसंपन्नास्तेषु भाजनानि दातव्यानि। एतैः कारणैरभिनवस्य पात्रस्य ग्रहणं भवति॥ ३५९७ ॥
देसे सव्वुवहिम्मी, अभिग्गही तत्थ होंति सच्छंदा। तेसिऽसति निजोएजा, जे जोग्गा दुविहउवहिम्मि ॥ ३५९८ ॥
तत्र तेषां व्यापारितानां स्वच्छन्दसां च मध्ये स्वच्छन्दसो भवन्ति अभिग्रहिण आभिग्रहिकाः, ते च आभिग्रहिका द्विविधा भवन्ति। तद्यथा-देशे-सर्वस्मिंश्चोपधावुत्पाद्ये, किमुक्तं भवति? एके एवमभिग्रहं प्रतिपन्ना यथा उपधिदेशं पात्रादिकं वयमुत्पादयिष्यामः, अपरे चैवं प्रतिपन्नाः सर्वमुपधिमुत्पादष्यिामः । ते चाऽऽभिग्रहिका भाजनैः कार्यमन्येन चोपधिना कार्यमिति ज्ञात्वा तदुत्पादनाय अव्यापारिता एव गच्छन्ति। अत एव ते आत्मछन्दस उच्यन्ते, आत्मनैव परप्रेरणाऽभावेनैव उपधेरानयनाय छन्दोऽभिप्रायो विद्यते येषां ते आत्मछन्दस इति व्युत्पत्तेः, तेषामसति अभावे ये योग्या: समर्था द्विविधे औधिके औपग्रहिके चोपधावुत्पाद्ये | तानाचार्यो नियुङ्क्ते व्यापारयति ॥ ३५९८ ॥
गाथा ३५९८-३६०१ पात्राऽऽनयना
यविधिः
|१४१२ (A)
For Private and Personal Use Only