________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशक:
१४११ (B)|M
पात्रमात्रकयोर्मध्ये एक पतद्ग्रहं ददाति तदा द्वितीयस्य हानिरिति येनैव भिक्षामटति तेनैव विचारभूमावपि गच्छतीति लोके जुगुप्साप्रसङ्गतः प्रवचनस्य उड्डाहः, आदिशब्दादाचार्यादयश्च तेन परित्यक्ता इति परिग्रहः। तस्मादफलं सूत्रमनवकशादिति । आचार्यो ब्रवीतिसूत्रनिपातः खल्वयं कारणिकः, किं तत् कारणम् ? इति चेद्, अत आह
अतिरेगदुविहकारण, अभिणवगहणे पुराणगहणे य । अभिणवगहणे दुविहे, वावारिय अप्पछंदे य ॥ ३५९६ ॥ द्विविधेन कारणेन द्वाभ्यां कारणाभ्यामतिरेकस्याऽतिरिक्तस्य पतद्ग्रहस्य सम्भवः ।। तद्यथा-अभिनवग्रहणेन पुराणग्रहणेन च । तत्र यत्तदभिनवग्रहणं तद् द्विविधं द्विप्रकारम्, तद्यथा-व्यापारिताश्च गृह्णन्ति आत्मछन्दसा च । गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात्, तच्च द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवति ॥ ३५९६ ॥
भिन्ने व झामिते वा, पडिणीए तेणसाणमादिहिते । सेहोवसंपयासु य, अभिनवगहणं तु पायस्स ॥ ३५९७ ॥
गाथा ३५९०-३५९७ | निष्कारणं मात्रकपरिभोगनिषेधः
१४११ (B)
For Private and Personal Use Only