________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
अष्टम
उद्देशकः १४१० (A)
तत् लोभेन मात्रके गृह्णाति तत इत्थं लोभे प्रसजति तन्निवारणायाऽऽचार्यादिप्रायोग्यग्रहणाभावे | पुनर्मात्रकं तदा वारयन्ति ॥ ३५८९ ॥
एवं सिद्धं गहणं, आयरियाणं कारणे भोगो। पाणदयट्टवभोगो, बितियो पुण रक्खियज्जातो॥ ३५९० ॥
एवमुक्तप्रकारेण मात्रकस्य ग्रहणं सिद्धं यतः सूत्रे ओघनिर्युक्यादौ आचार्यादीनां कारणे आचार्यादिप्रायोग्यग्रहणलक्षणेन कारणेन मात्रकस्य भोगोऽनुज्ञातः, द्वितीयः पुनरुपभोग आर्यरक्षितात् प्राणदयार्थं प्रवृत्तः, कारणाभावे तु मात्रकपरिभोगे प्रायश्चित्तम् ॥ ३५९० ॥
तदेवाहजत्तियमेतां वारा, दिणेण आणेइ तत्तिया लहुगा। अट्ठहिं दिणेहिं सपयं, निक्कारणमत्तपरिभोगे॥ ३५९१ ॥ निष्कारणं कारणाभावे मात्रकस्य परिभोगे यावन्मात्रान् वारान् दिवसेनैकेन तेन मात्रेण ||१४१० (A) आनयति तावतो लघुका मासास्तस्य प्रायश्चित्तम्, अष्टभिर्दिनैः स्वपदं पुनर्वतारोपणं
गाथा ३५९०-३५९७ निष्कारणं मात्रकपरिभोगनिषेधः
For Private and Personal Use Only