________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः १४०९ (B)
तस्यैवं ब्रुवतश्चतुर्गुरुकं प्रायश्चित्तं, तथा तस्य मात्रकस्योपभोग आचार्यादीनाम्, आचार्यग्लान-प्राघूर्णक-बाल-वृद्धादीनामर्थाय तत्प्रायोग्यग्रहणाय, उपलक्षणमेतत्, संसक्तभक्तपानशोधिकरणाय च प्रागुक्तकारणव्यतिरेकेण प्रायेणाऽनुज्ञातः, इतरथा तूक्तकारणव्यतिरेकेण नानुज्ञातः ॥ ३५८७॥ ३५८८ ॥ एतच्च परिभाव्य ततः आरक्षितैश्चिन्तितं प्रायः प्राणरक्षणाय संसक्तभक्तपानविशोधिकरणाय च मात्रकपरिभोगोऽनुज्ञातः । तत्र भूयसां प्राणानामप्कायप्रभृतीनां संसक्तभक्तपानानां च वर्षासमये [समुत्पत्तिः] तत आरक्षितैः वर्षासु मात्रकपरिभोगोऽनुज्ञातः शेषकालं तु लोभप्रसङ्गनिवारणाय प्रतिषिद्धः
तथा चाहगुणनिप्फत्ती बहुगी, दगमासे होहिति त्ति वितरंति। लोभे पसज्जमाणे, वारेंति पुणो ततो मत्तं ॥ ३५८९ ॥
गुणनिष्पत्तिर्बह्वी दकमासे वर्षारात्रे भविष्यतीति तत्प्रारम्भसमये भगवन्त आर्यरक्षिता | मात्रकपरिभोगं वितरन्ति अनुजानन्ति, ऋतुबद्धे तु काले आचार्यादिप्रायोग्यग्रहणलक्षणं कारणमतिरिच्याऽन्यत् कारणं न समस्ति, केवलं लोभ एव प्रसज्यते । तथाहि-यद्यत् उत्कृष्टं तत् |
गाथा ३५८४-३५८९ | मात्रकानुज्ञा| कारणानि
|१४०९ (B)
For Private and Personal Use Only