________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देश :
१४०८ (B)
www.kobatirth.org
सा च यैः कारणैः कृता तान्युपदर्शयति
दूरे चिखल्लो वुट्टिकाय सज्झायझाणपलिमंथो ।
तो तेहिं एस दिन्नो, एव भणंतस्स चउगुरुगा ॥ ३५८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ते आर्यरक्षिता आचार्या दशपुरे नगरे नगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षारात्रं स्थिताः, मार्गे च कर्दमोऽतिप्रभूतो, वृष्टिः वर्षं तदप्यतिशयेन प्रभूतं पतति, तत्र प्रायोग्ये आचार्यादीनां लभ्यमाने यदि न गृह्यते तदा ते परित्यक्ता भवन्ति, अथ गृह्यते तर्हि कुत्र पानीयं भैक्षं वा गृह्यताम् ? अथ नीत्वा प्रत्यागम्यते तदा कायानामप्कायहरितकायानां विराधना, स्वाध्यायध्यानानां च परिमन्थो व्याघातः, ततस्तैरेतैः कारणैरेष मात्रकस्योपदेशो दत्तः । सूरिराहयथोक्तकारणवशादार्यरक्षितैरेष मात्रकोऽनुज्ञातो न तीर्थकरैरिति एवं भणतो वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः, -तीर्थकरैरप्यनुज्ञानात्, एतच्चाग्रे दर्शयिष्यते । यदपि चोक्तं- 'ये निग्गंथे तरुणे बलवं से एगं पायं धरेज्जा नो बीयमित्यादि सूत्रम् । [आचाराङ्ग] तदपि गच्छनिर्गतविषयं न स्थविरकल्पाश्रितं, न च तेन कारणजातेन आर्यरक्षितैः मात्रकानुज्ञा कृता ॥ ३५८६ ॥ [तथा न] तदैवेकं केवलं किंत्वन्यदपि मात्रकानुज्ञायां कारणकदम्बकमस्ति ।
For Private and Personal Use Only
गाथा
३५८४- ३५८९ मात्रकानुज्ञाकारणानि
१४०८ (B)