________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०८ (A)
अध्वनिर्गतादयः परित्यक्ताः, यच्च तेषां पात्रं दत्त्वा स्वयं कुलालभाण्डग्रहणं कुर्यात् तत्राप्यनेके दोषाः, ते च प्रागेव भाविताः, व्रतान्यपि त्यक्तानि भवन्ति । पानग्रहणे पानग्रहणं भक्तोपलक्षणं, संसक्तभक्तपानग्रहणे इत्यर्थः । भावना सर्वत्र प्रागेव कृता ॥ ३५८३ ॥
पुनरपि परः प्रश्नयतिजइ होंति दोस एवं, तम्हा एक्कक्क धारए एक्कं। सुत्ते य एगं भणियं, मत्तयउवदेसणा वेण्डिं। ३५८४ ॥ दिन्नज्जरक्खिएहिं, दसपुरनगरम्मि उच्छुघरनामे। वासावासठिएहिं, गुणनिप्फत्तिं बहुं नाउं ॥ ३५८५ ॥ एवमुक्तप्रकारेण बहूनामेकपात्राभ्यनुज्ञायां दोषा भवन्ति, तस्मात् एकैकः एकं पात्रं धारयेत् ||३५८४-३५८९
मात्रकानुज्ञान मात्रकं, युक्तं चैतत् यतः सूत्रेऽप्येकं पात्रमनुज्ञातं तथा चोक्तम्-'जे निग्गंथे तरुणे बलवं से एगं पायं धरेज्जा नो बीयमिति' ततो ज्ञायते नानुज्ञातं तीर्थंकरैर्मात्रकग्रहणम् केवलमिदानीम् आर्यरक्षितैराचार्यैर्दशपुरनगरे इक्षुगृहनाम्नि उद्याने वर्षावासस्थितैर्बह्वीं गुणनिष्पत्तिं ज्ञात्वा
|१४०८ (A) मात्रकस्योपदेशना दत्ता कृता ।। ३५८४ ॥ ३५८५ ॥
गाथा
कारणानि
For Private and Personal Use Only