SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०७ (B) यदि कथमपि भिद्येत तदा तन्मूल्यं दाप्येत कलहादयो वा दोषाः स्युः, वया यत्ति व्रतान्यपि च परित्यक्तानि स्युः। यतः प्रत्येकपात्रग्रहणे एकत्र संसक्तभक्तं पानं वा गृहीत्वा प्रत्युपेक्षेत प्रत्युपेक्ष्याऽन्यत्र प्रक्षिपति, बहूनां त्वेकपात्राभ्यनुज्ञाने शीतोष्णानि संसक्ताऽसंसक्तभक्तपानानि गृह्णतः प्राणानां विराधना, तथा च व्रतानि परित्यक्तानि । भिन्नत्ति, एकं पात्रं कदाचिद् भिन्नं स्यात् तदा कुतोऽन्यत् तत्कालं लभ्यते ? अन्यत्र मार्गयतः स एव पलिमन्थदोषः, कुलालभाण्डग्रहणे च प्रागुक्ता दोषाः । तथा एकपात्रपरिग्रहे आचार्या आदेशाः प्राघूर्णका बालवृद्धाः शैक्षकाः क्षपकाश्च परित्यक्ताः। यत एकपात्रानीतमेकस्यात्मनो भवति, आचार्यादीनां किं ददातु? कुत्र वा तेषां प्रायोग्यं गृह्णातु? ततस्ते एवं परित्यक्ताः ॥ ३५८२ ॥ अत्र पूर्वार्द्धव्याख्यानार्थमाहदेंते तेसिं अप्पा, जढो अद्दाणे ते जढा जं च। कुज्जा कुलालगहणं, वया जढा पाणगहणम्मि॥ ३५८३॥ तेषामध्वनिर्गतानां ग्लानानां च ददति आत्मा परित्यक्तो भवति, अदाने ते गाथा ३५७८-३५८३ प्रमाणोने पात्रे दोषाः |१४०७ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy