________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०५ (B)
द्वे पात्रे तीर्थकरैरनुज्ञाते तद्यथा-पात्रं मात्रं च, तत्र यदि तृतीयं पात्रं गृह्णाति तदा गणनयाऽतिरेकं भवति, यच्च प्रमाणं पात्रस्योक्तं ततो यदि बृहत्तरं गृह्णाति तदा प्रमाणतोऽतिरेकम्। तत्र गणनया प्रमाणेन वाऽतिरिक्तं पात्रं धारयति परिकर्मणायां तज्जाताऽतज्जातप्राणसङ्घट्टनम्, उपलक्षणमेतत्, प्राणानां परितापनमपद्रावणं च, तथा अध्वनि तद्वहने भारः। उभयकालं प्रतिदिवसं प्रतिलेखने परिमन्थः ॥ ३५७६ ॥
अत्र परप्रश्नमुपदर्शयतिचोदेती अतिरेगे, जदि दोसा तो धरेउ ओमं तु।
सूत्र १६ एक्कं बहूण कप्पति, हिंडंतु य चक्कवालेण॥ ३५७७॥
३५७३-३५७७
अतिरिक्तपतद्अत्र परश्चोदयति-'यद्यतिरेके पात्रे गृह्यमाणे अनन्तरोक्ता दोषाः, ततोऽवमं गणनया |* ग्रहादिधारणे हीनं पात्रं धारयतु यथा यथा अल्पोपधिता तथा तथा बहुबहुतरगुणसम्भवात्' । कथं गणनया |विधिनिषेधादिः हीनं धारयतु इत्याह- एकं बहूनां पञ्चानां कल्पते, ते च पञ्चजनाश्चक्रवालेन एकस्मिन् ४|१४०५ (B) दिने एको द्वितीये द्वितीय इत्यादिरूपेण भिक्षां हिण्डन्ताम् ॥ ३५७७ ॥
गाथा
For Private and Personal Use Only