________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः १४०५ (A)
साधर्मिक इत्युद्देशो भवति स्त्रीणां पुरुषाणां वाऽभिधानमिति निर्देशः, अथवा गणी वाचक इत्युद्देशः, अमुको गणी अमुको वाचक इति इतरो निर्देशः ।। ३५७४ ॥
सम्प्रति नियुक्तिविस्तरःऊणातिरित्तधरणे चउरो मासा हवंति उग्घाया। आणादिणो य दोसा संघट्टणमादि पलिमंथो॥ ३५७५॥
गणनया प्रमाणेन च ऊनस्य अतिरिक्तस्य वा उपकरणस्य धरणे प्रायश्चित्तं चत्वारो | मासा उद्घाता लघवः आज्ञादयश्च दोषाः। तथा पात्रपरिकर्मणां कुर्वन् तद्गतान् वा प्राणान् संघट्टयति, आदिशब्दात् परितापयति अपद्रावयति वा, ततस्तन्निमित्तमपि तस्य प्रायश्चित्तं तथा प्रतिदिवसमुभयकालं पात्राणि अन्यद् वाऽतिरिक्तमुपकरणं प्रत्युपेक्षमाणस्य परिमन्थः सूत्रार्थव्याघातः । तस्मात् गणनया प्रमाणेन च सूत्रोक्तमुपकरणं धारयितव्यम् ॥ ३५७५ ॥ | तत्र पात्रमधिकृत्यातिरेकं व्याख्यानयतिदो पायाऽणुण्णाया, अतिरेगं तइयं च माणतो। धारते पाणघट्टणभारे पडिलेहपलिमंथो॥ ३५७६ ॥
13
सूत्र १६
गाथा ३५७३-३५७७ अतिरिक्तपतद्ग्रहादिधारणे विधिनिषेधादिः
४|१४०५ (A)
For Private and Personal Use Only