________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३९८ (B)
परिष्ठापयन्ति एतेन 'इच्छा कज्जेसु' इति व्याख्यातम्, सम्प्रति 'सेसेसु' त्ति व्याख्यायतेशेषा असाम्भोगिकास्तेष्वपि कार्येष्विच्छा, इयमत्र भावना-अन्यसाम्भोगिकैरानीते तैश्च प्रतिषिद्धे यदि यैरानीतस्ते तेन विना न संस्तरन्ति अन्यश्चोपधिर्दुर्लभो न लभ्यते वा, तदा तैः समनुज्ञातं परिभुञ्जते। एतावता 'अप्पबहु असंथरंतम्मी 'ति व्याख्यातम् ॥ ३५५५ ।।
तदेवं संविग्नानां विधिरिदानीमसंविग्नानामपधिरुच्यतेपक्खिगाऽपक्खिगा चेव, हवंति इयरे दुहा । संविग्गपक्खिगे णेति, इयरेसि न गेण्हती ॥ ३५५६॥ इतरे असंविग्ना द्विधास्तद्यथा-संविग्नपाक्षिका अपाक्षिकाच असंविग्नपाक्षिका | ३५५५-३५६०
असंविग्नइत्यर्थः। तत्र यः संविग्नपाक्षिके संविग्नपाक्षिकस्य सम्बन्धी उपधिस्तं स्वयं वा नयति विस्तोप अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा यस्त्वितरेषामसंविग्नानामुपधिस्तं पतितं दृष्ट्वा
विधिः न गृह्णाति ॥ ३५५६॥
१३९८ (B) अत्रैवापवादमाह
गाथा
For Private and Personal Use Only