________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३९८ (A)
यो न ज्ञायते कस्याप्येष उपधिरिति स परिज्ञाननिमित्तं स्नानादि समवसरणे घोष्यते, घोषणां च श्रुत्वा केनापि कथिते ज्ञाते येषां स उपधिस्तत्र स्वयं
त्वा) नयति अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा, तथा पम्हुढे विस्मरणतः पतिते व्युत्सृष्टे परित्यक्ते येनानीतस्तस्मिन्नसंस्तरति अल्पबहु परिभाव्य परिभोगोऽनुज्ञातः ॥ ३५५४ ॥ एतदेव व्याख्यानयतिकाम पम्हुटुं नो, चत्तं पुण भावतो इमम्हेहिं । इति उपधि बेंति समणुण्णे, इच्छाकज्जेसु सेसेसु ॥ ३५५५॥
येषां स उपधिर्विस्मरणतः पतितस्तेषामन्तिकं स नीयते नीत्वा चेदं भण्यते, यथा अयं युष्मविस्मरणतः पतितोऽस्माभिश्चाऽऽनीतस्ततो गृह्यतामिति। एवमुक्ते ते प्राहुः कामं नोऽस्माकं | विस्मरणत: पतितमिदमुपकरणं परं भावत इदमस्माभिस्त्यक्तं त्रिविधं त्रिविधेन व्युत्सृष्टमिति भावः । एवं ब्रवन्तस्ते यदि साम्भोगिकाः, तेन च विना संस्तरन्ति तर्हि स उपधिर्येषां सत्कस्ते
गाथा ३५५५-३५६० असंविग्न
विधिः
१३९८ (A)
१. पम्हुटुं ण्हे-ला.॥ २. यथार्य !- मु. ॥
For Private and Personal Use Only