________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः १३९७ (B)
यस्तु संविग्नानाम्, [उपधिः तस्य नयनं यतनया। तत्र संविग्नानां] द्वौ वर्गों तद्यथासंयताः संयत्यश्च। तत्र संविग्ने एकैकस्मिन् वर्गे षड् भङ्गा ज्ञाते भवन्ति। अज्ञाते च वक्ष्यमाणो विधिः ॥ ३५५२॥
तत्र षड् भङ्गानुपदर्शयतिसयमेव अण्णपेसे, अप्पाहे वावि एव सग्गामे । परगामे वि य एवं, संजतिवग्गे वि छब्भंगा ॥ ३५५३॥
यदि ते संयताः संविग्ना इति ज्ञातास्तदा स्वयं वा गन्तुं (गत्वा) नयति । अन्यस्य वा हस्ते प्रेषयति संदेशयति वा, यथा-मया स उपधिर्विस्मरणतः पतितो लब्ध इति। एवं | स्वग्रामे त्रयो भङ्गाः, परग्रामेऽपि स्थितानामेते एव त्रयः प्रकाराः, एवं षड् भङ्गाः संयतानाम्। एवं संयतीवगेऽपि षड् भङ्गाः ॥ ३३५५॥ तदेवं ज्ञातविषये विधिरुक्तः सम्प्रत्यज्ञातविषयं विधिमाहपहाणादि नाय घोसण, सोउं गमणं व पेसणप्पाहे । पम्हुढे वोसढे, अप्पबहु असंथरंतंम्मि ॥ ३५५४ ॥
गाथा
३५४८-३५५४ विस्मृतोप करणे दृष्टे विधिः
१३९७ (B)
For Private and Personal Use Only