SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्यवहार सूत्रम् अष्टम उद्देशकः १३९७ (A) एवमुक्तेन प्रकारेण तावत् येषामुपधिर्विस्मरणतः पतितस्तेषामेषोऽनन्तरोदितो विधिर्भवति, | ये पुनरन्ये साधर्मिकाः प्रेक्षन्ते तेषामयं वक्ष्यमाणो विधिर्भवति ॥ ३५५० ॥ तमेवाहदल अगेण्हणे लहुगो, दुविहो उवही उ नायमण्णातो । दुविहा णायमणाया, संविग्ग तहा असंविग्गा ॥ ३५५१॥ द्विविध उपधिरौधिक औपग्रहिकश्च, तस्य द्विविधस्यापि पतितस्य दृष्ट्वा अग्रहणे प्रायश्चित्तं | लघुको मासः ये च पूर्वमुक्ता अधिकरणादयो दोषास्तेऽपि तस्य प्रसजन्ति। स चोपधिर्भूयो द्विधा -ज्ञातोऽज्ञातश्च । तत्र ज्ञातो नाम येषां स उपधिस्तेषां ज्ञायते, अज्ञातो यो न ज्ञायते | यथा अमुकस्य सम्बन्धीति। ते ज्ञाता द्विविधा भवेयुः- संविग्ना वा असंविग्ना वा, योऽपि चोपधिर्येषां सत्कतया न ज्ञायते तेऽप्यज्ञाता द्विविधाः संविग्ना असंविग्नाश्च ॥ ३५५१॥ | मोत्तूण असंविग्गे, संविग्गाणं तु नयण जयणाए । दो वग्गा संविग्गे, छब्भागा नायमण्णाए ॥ ३५५२॥ मुक्त्वा असंविग्नान् किमुक्तं भवति ? यो ज्ञायते असंविग्नानामेष उपधिः स न नीयते, गाथा ३५४८-३५५४ विस्मृतोप करणे दृष्टे विधि: १३९७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy