________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३९४ (A)12
कोऽपि सखरो राजकुलमान्यः प्रान्तः प्रश्रवणमुच्चारं पथि कुर्वन्तं दृष्ट्वा कोपात् तमेष श्रमणमास्कन्द्य तमुच्चारं छर्दापयेत्, अपरैन्यपन्था क्रियते, तत्र चोक्तं प्रायश्चित्तम्। तथा पथि द्रवाऽभावे दुरभिगन्ध उच्छलेत् तत्रापि प्रवचनोड्डाहः। तथा कोऽपि कलुषात्मा शङ्केत स्तनक इति, उपलक्षणमेतत् हेरिको अभिचारको वा इत्यपि शङ्केत । तत आदाने ग्रहणे प्रवचनस्य उड्डाहः । तस्मात् पथि विश्रामणादि न कर्त्तव्यम् ॥ ३५४१ ।।
अत्रैवापवादमाहअच्चायवदूरपहे, असहू भारेण खेदियप्पा वा । छन्ने वा मोत्तु पहं, गामसमीवे य छन्ने वा ॥ ३५४२॥
अतिशयेनाऽऽतप उष्णं पतति वृक्षाश्च पथो दुरे वर्तन्ते यथा सन्नपल्लीमार्गं प्रतिपन्नानामेक ||३५४२-३५४७ एवाऽध्वनि विश्रमणयोग्यो वृक्षः, एवमधिकृतेऽप्यध्वनि विश्रमणहेतुरेक एव वृक्षोऽन्यत्र | | अपवादे पथि सर्वमाकाशं, तेन कारणेन पथ्यपि वृक्षस्याधस्तात् विश्राम्येत। असहो नाम नातिदूरे वृक्षाः
विश्रामणादिः
यतना च सन्ति परं तत्र गन्तुं न शक्नोति ततः सोऽपि पथि वृक्षस्याधो विश्रामणं कुर्यात् । अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्वर्तितं न शक्नोतीति पथ्येव । १३९४ (A) १. यथा सणपल्ली पु. प्रे. मु.॥
गाथा
For Private and Personal Use Only